|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.292. अध्यायः 292
Mahabharata - Shanti Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ज्ञानस्य दुःखादिनिवर्तकत्वप्रतिपादकनारदसमङ्गसंवादानुवादः॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-292-0x(6425)(77170)
शोकाद्दुःखाच्च मृत्योश्च त्रसन्ते प्राणिनः सदा।
उभयं नो यथा न स्यात्तन्मे ब्रूहि पितामह॥ 12-292-1(77171)
भीष्म उवाच। 12-292-2x(6426)
अत्राप्युदाहरन्तीममितिहासं पुरातनम्।
नारदस्य च संवादं समङ्गस्य च भारत॥ 12-292-2(77172)
नारद उवाच। 12-292-3x(6427)
उरसेव प्रणमसे बाहुभ्यां तरसीव च।
संप्रहृष्टमना नित्यं विशोक इव लक्ष्यसे॥ 12-292-3(77173)
उद्वेगं न हि ते किंचित्सुसूक्ष्ममपि लक्षये।
नित्यतृप्त इव स्वस्थो बालवच्च विचेष्टसे॥ 12-292-4(77174)
समङ्ग उवाच। 12-292-5x(6428)
भूतं भव्यं भविष्यच्च सर्वभूतेषु नारद।
तेषां तत्त्वानि जानामि ततो न विमना ह्यहम्॥ 12-292-5(77175)
उपक्रमानहं वेद पुनरेव फलोदयान्।
लोके फलानि चित्राणि ततो न विमना ह्यहम्॥ 12-292-6(77176)
अनाथाश्चाप्रतिष्ठाश्च गतिमन्तश्च नारद।
अन्धा जडाश्च जीवन्ति पश्यास्मानपि जीवतः॥ 12-292-7(77177)
विहितेनैव जीवन्ति अरोगाङ्गा दिवौकसः।
बलवन्तोऽबलाश्चैव तद्वदस्मान्सभाजय॥ 12-292-8(77178)
सहस्रिणोऽपि जीवन्ति जीवन्ति शतिनस्तथा।
शाकेन चान्ये जीवन्ति पश्यास्मानपि जीवतः॥ 12-292-9(77179)
यदा न शोचेमहि किं नु नः स्या
द्धर्मेण वा नारद कर्मणा वा।
कृतान्तवश्यानि यदा सुखानि
दुःखानि वा यन्न विधर्षयन्ति॥ 12-292-10(77180)
यस्मै प्राज्ञाः कथयन्ते मनुष्याः
प्रज्ञामूलं हीन्द्रियाणां प्रसादः।
मुह्यन्ति शोचन्ति तथेन्द्रियाणि
प्रज्ञालाभो नास्ति मूढेन्द्रियस्य॥ 12-292-11(77181)
मूढस्य दर्पः स पुनर्मोह एव
मूढस्य नायं न परोऽस्ति लोकः।
न ह्येव दुःखानि सदा भवन्ति
सुखस्य वा नित्यशो लाभ एव॥ 12-292-12(77182)
भावात्मकं संपरिवर्तमानं
न मादृशः संज्वरं जातु कुर्यात्।
इष्टान्भोगान्नानुरुध्येत्सुखं वा
न चिन्तयेद्दुःखमभ्यागतं वा॥ 12-292-13(77183)
समाहितो न स्पृहयेत्परेषां
नानागतं चाभिनन्देच्च लाभम्।
न चापि हृष्येद्विपुलेऽर्थलाभे
तथाऽर्थनाशे च न वै विषीदेत्॥ 12-292-14(77184)
न बान्धवा न च वित्तं न कौल्यं
न च श्रुतं न च मन्त्रा न वीर्यम्।
दुःखान्त्रातुं सर्व एवोत्सहन्ते
परत्र शीलेन तु यान्ति शान्तिम्॥ 12-292-15(77185)
नास्ति बुद्धिरयुक्तस्य नायोगाद्विन्दते सुखम्।
धृतिश्च दुःखत्यागश्चेत्युभयं तु सुखं नृप॥ 12-292-16(77186)
प्रियं हि हर्षजननं हर्ष उत्सेकवर्धनः।
उत्सेको नरकायैव तस्मात्तान्संत्यजाम्यहम्॥ 12-292-17(77187)
एताञ्शोकभयोत्सेकान्मोहनान्सुखदुःखयोः।
पश्यामि साक्षिवल्लोके देहस्यास्य विचेष्टनात्॥ 12-292-18(77188)
अर्थकामौ परित्यज्य विशोको विगतज्वरः।
तृष्णामोहौ तु संत्यज्य चरामि पृथिवीमिमाम्॥ 12-292-19(77189)
न च मृत्योर्न चाधर्मान्न लोभान्न कुतश्चन।
पीतामृतस्येवात्यन्तमिह वामुत्र वा भयम्॥ 12-292-20(77190)
एतद्ब्रह्मन्विजानामि महत्कृत्वा तपोऽव्ययम्।
तेन नारद संप्राप्तो न मां शोकः प्रबाधते॥ ॥ 12-292-21(77191)
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्विनवत्यधिकद्विशततमोऽध्यायः॥ 292॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-292-8 पशवोऽपि हि जीवन्तीति तद्वदस्मान्विभावयेति च. ध. पाठः॥ 12-292-10 दुःखानि चार्थं न विवर्धयन्तीति ध. पाठः॥ 12-292-11 यत्प्रज्ञानं कथयन्ते इति थ. पाठः॥ 12-292-16 नायोगे विन्दते सुखमिति। मतिः सुखं च योगः स्यादुभयं न सुखोदयमिति च झ. पाठः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|